कर्पूरगौरं व पुष्पांजलि मंत्र
आरती के बाद के मंत्र
॥ कर्पूर आरती मंत्र ॥ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्। सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि॥ ॥ मंगल श्लोक ॥ मंगलं भगवान विष्णुः मंगलं गरुडध्वजः। मंगलं पुण्डरीकाक्षः मंगलाय तनो हरिः॥ ॥ प्रार्थना ॥ त्वमेव माता च पिता त्वमेव। त्वमेव बन्धुश्च सखा त्वमेव। त्वमेव विद्या द्रविणं त्वमेव। त्वमेव सर्वं मम देव देव॥ ॥ विष्णु ध्यान ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥ ॥ क्षमा प्रार्थना ॥ आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न जानामि क्षमस्व परमेश्वर॥ ॥ शांति पाठ ॥ ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्॥ ॐ शान्तिः शान्तिः शान्तिः॥